|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.15. अध्यायः 015
Mahabharata - Strii Parva - Chapter Topics
युधिष्ठिरादिभिर्गान्धारीकुन्त्योरभिवादनम्॥ 1 ॥ सकुन्त्या गान्धार्या द्रौपदीसमाश्वासनम्॥ 2 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-15-0x(5348)(65199)
तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत।
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता॥ 11-15-1(65200)
तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः।
युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत्॥ 11-15-2(65201)
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः।
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्॥ 11-15-3(65202)
नहि मे जीवितेनार्थो न राज्येन सुखेन वा।
तादृशान्सुहृदो हत्वा प्रमूढस्य सुहृद्द्रुहः॥ 11-15-4(65203)
तमेवंवादिनं भीतं सन्निकर्षागतं तदा।
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा नृप॥ 11-15-5(65204)
तस्मावनतदेहस्य पादयोर्निपतिष्यतः।
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी॥ 11-15-6(65205)
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा।
ततः स कुनखीभूतो दर्शनीयनखो नृपः॥ 11-15-7(65206)
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः॥ 11-15-8(65207)
एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत।
गान्धारी विगतक्रोधा सांत्वयामास मातृवत्॥ 11-15-9(65208)
ते पाण्डवा अनुज्ञाता मातरं वीतमत्सराः।
अभ्यगच्छन्त सहिताः पृथां पृथुवलक्षसः॥ 11-15-10(65209)
चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता।
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम्॥ 11-15-11(65210)
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा।
अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान्॥ 11-15-12(65211)
सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः।
अन्वशोचत दुःखार्ता द्रौपदीं निहतात्मजाम्।
रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि॥ 11-15-13(65212)
द्रौपद्युवाच। 11-15-14x(5349)
आर्ये पौत्रास्तु ते सर्वे सौभद्रसहिता गताः।
न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा अनिन्दिते।
किन्नु राज्येन मे कार्यं विहीनायाः सुतैर्वरैः॥ 11-15-14(65213)
तां समाश्वासयामास पृथा पृथललोचना।
उत्थाप्याङ्केन सुदतीं रुदतीं शोककर्शिताम्॥ 11-15-15(65214)
तयैव सहिता चापि पुत्रैरनुगता पृथा।
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्॥ 11-15-16(65215)
वैशम्पायन उवाच। 11-15-17x(5350)
तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम्।
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखितां॥ 11-15-17(65216)
मन्ये लोकविनाशोऽयं कालपर्यायनोदितः।
अवश्यभावी सम्प्राप्तः स्वभावाद्रोमहर्षणः॥ 11-15-18(65217)
इदं तत्समनुप्राप्तं विदुरस्य वचो महत्।
असिद्धानुनये कृष्णे यदुवाच महामतिः॥ 11-15-19(65218)
तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः।
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः॥ 11-15-20(65219)
यथैवाहं तथैव त्वं को वामाश्वासयिष्यति।
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्॥ ॥ 11-15-21(65220)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चदशोऽध्यायः॥ 15 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-15-7 कुनखीभूतो हस्तदेश इति शेषः॥ 11-15-14 आर्ये पौत्रा हताः सर्वे इति क.छ.पाठः॥ 11-15-21 वां आवाम्॥ 11-15-15 पञ्चदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|